गणेशोत्सव २०१९ श्री गणेश प्रतिष्ठापना

Submitted by संयोजक on 1 September, 2019 - 04:57

ganpati stage 1.jpg
---
गणपती बाप्पा मोरया!
मंगलमूर्ती मोरया!

श्लोक : मधुरा कुलकर्णी यांच्या आवाजात.

विषय: 
Group content visibility: 
Public - accessible to all site users

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं |
कलाधरावतंसकं विलासिलोकरक्षकम् ||
अनायकैकनायकं विनाशितेभदैत्यकं |
नताशुभाशुनाशकं नमामि तं विनायकम् ||

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |
भक्तावासं स्मरेन्नित्यं आयु:कामार्थसिद्धये ||

प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् |
तृतीयं कॄष्णपिंगाक्षं गजवक्रं चतुर्थकम् ||

लंबोदरं पंच्ञमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमम् ||

नवमं भालचंद्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननम् ||

द्वादशैतानि नामानि त्रिसंंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धीकरं प्रभु: ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ||

जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||

|| इति श्री नारदपुराणे संकटनाशनमं महागणपतिस्तोत्रं संपूर्णम् ||

Ganpati Bappa Morya
Mangal Murti Morya
Pudchya Varshi Lavkar Yaa

Pages